|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.151. अध्यायः 151
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति पुरुषस्य पुण्यविशेषेणि पुनःपुनः स्वर्गभूम्यादिषु परिवर्ततेन जातवैराग्यस्य ब्रह्मज्ञानेनापुनरावृत्तिशाश्वतपदाप्राप्त्यादिप्रकारप्रतिपादनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`पराशर उवाच।
ततः श्रुतिसमापन्नः संस्कृश्च यथाविधि।
चौलोपनयनं तस्य यथावत्क्रियते द्विजैः॥ 13-151-1(87235)
ततोऽष्टमे स वर्षे तु व्रतोपनयनादिभिः।
क्रियाभिर्विधिदृष्टाभिर्ब्रह्मत्वमुपनीयते॥ 13-151-2(87236)
गायत्रेण छन्दसा तु संस्कृतश्चरितव्रतः।
अधीयमानो मेधावी शुद्धात्मा नियतव्रतः॥ 13-151-3(87237)
अचिरेणैव कालेन साङ्गान्वेदानवाप्नुते।
समावृत्तः स धर्मात्मा समावृत्तिक्रियस्तथा॥ 13-151-4(87238)
याजनाध्यापनरतः कुशले कर्मणि स्थितः।
अग्निहोइत्रपरो नित्यं देवतातिथिपूजकः॥ 13-151-5(87239)
यजते विविधैर्यज्ञैर्जपयज्ञैस्तथैव च।
न्यायागतधनान्वेषी न्यायवृत्तस्तपोधनः॥ 13-151-6(87240)
सर्वभूतहितश्चैव सर्वशास्त्रविशारदः।
स्वदारपरितुष्टात्मा क्रतुगामी जितेन्द्रियः॥ 13-151-7(87241)
परापवादविरतः सत्यव्रतपरः सदा।
स कालपरिणामात्तु संयुतः कालधर्मणा॥ 13-151-8(87242)
संस्कृतश्चाग्निहोत्रेण यथावद्विधिपूर्वकम्।
सोमलोकमवाप्नोति देहन्यासान्न संशयः॥ 13-151-9(87243)
तत्र सोमप्रभैर्देवैरग्निष्वात्तैश्च भास्वरैः।
तथा बर्हिषदैश्चैव देवैराङ्गिरसैरपि॥ 13-151-10(87244)
विश्वेभिश्चैव देवैश्च तथा ब्रह्मर्षिभिः पुनः।
देवर्षिभिश्चाप्रतिमैस्तथैवाप्सरसां गणैः।
साध्यैः सिद्धैश्च सततं सत्कृतस्तत्र मोदते॥ 13-151-11(87245)
जातरूपमयं दिव्यमर्कतुल्यं मनोजवम्।
देवगन्धर्वसंकीर्णं विमानमधिरोहति॥ 13-151-12(87246)
सौम्यरूपा मनःकान्तास्तप्तकाञ्चनभूषणाः।
सोमकन्या विमानस्थं रमयन्ति मुदान्विताः॥ 13-151-13(87247)
स तत्र रमते प्रीतः सह देवैः सहर्षिभिः।
लोकान्सर्वाननुचरन्दीप्ततेजा मनोजवः॥ 13-151-14(87248)
सभां कामजवीं चापि नित्यमेवाभिगच्छति।
सर्वलोकेश्वरमृषिं नमस्कृत्य पितामहम्॥ 13-151-15(87249)
परमेष्ठिरनन्तश्रीर्लोकानां प्रभवाप्ययः।
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः।
स तत्र वर्तते श्रीमान्द्विशतं द्विजसत्तम॥ 13-151-16(87250)
अथ कालक्षयात्तस्मात्स्थानादावर्तते पुनः।
जातिधर्मांस्तथा सर्वान्सर्गादावर्तनानि च॥ 13-151-17(87251)
अशाश्वतमिदं सवेमिति चिन्त्योपलभ्य च।
शाश्वतं दिव्यमचलमदीनमपनर्भवम्॥ 13-151-18(87252)
आस्थास्यत्यभयं नित्यं यत्रावृत्तिर्न विद्यते।
यत्रि गत्वा न म्रियते जन्म चापि न विद्यते॥ 13-151-19(87253)
गर्भक्लेशामयाः प्राप्ता जायता च पुनः पुनः।
कायक्लेशाश्च विविधा द्वन्द्वानि विविधानि च॥ 13-151-20(87254)
शीतोष्णसुखदुःखानि ईर्ष्याद्वेषकृतानि च।
तत्रतत्रोपभुक्तानि न क्वचिच्छाश्वती स्थितिः॥ 13-151-21(87255)
एवं स निश्चयं कृत्वा निर्मुच्यि ग्रहबन्धनात्।
छित्त्वा भार्यामयं पाशं तथैवापत्यसम्भवम्॥ 13-151-22(87256)
यतिधर्ममुपाश्रित्यि गुरुशुश्रूषणे रतः।
अचिरेणैव कालेन श्रेयः समभिगच्छति॥ 13-151-23(87257)
योगशास्त्रं च साङ्ख्यं च विदित्वा सोऽर्थतत्वतः।
अनुज्ञातश्च गुरुणा यथाशास्त्रमवस्थितः॥ 13-151-24(87258)
पुण्यतीर्थानुसेवी च नदीनां पुलिनाश्रयः।
शून्यागारनिकेतश्च वनवृक्षगुहाशयः॥ 13-151-25(87259)
अरण्यानुचरो नित्यं देवारण्यनिकेतनः।
एकरात्रं द्विरात्रं वा न क्वचित्सज्जते द्विजः॥ 13-151-26(87260)
शीर्णपर्णभुगेवापि वने चरति भिक्षुकः।
न भोगार्थमनुप्रेत्य यात्रामात्रं समश्नुते॥ 13-151-27(87261)
धर्मलब्धं समश्नाति न कामात्किञ्चिदश्नुते।
युगमात्रदृगध्वानं क्रोशादूर्ध्वं न गच्छति॥ 13-151-28(87262)
समो मानावमानाभ्यां समलोष्टाश्मकाञ्चनः।
सर्वभूताभयकरस्तथैवाभयदक्षिणः॥ 13-151-29(87263)
निर्द्वन्द्वो निर्नमस्कारो निरानन्दपरिग्रहः।
निर्ममो निरहङ्कारः सर्वभूतनिराश्रयः॥ 13-151-30(87264)
परिसङ्ख्यानतत्वज्ञस्तदा सत्यरतः सदा।
ऊर्ध्वं नाधो न तिर्यक्च न किञ्चिदभिकामयेत्॥ 13-151-31(87265)
एवं हि रममाणस्तु यतिधर्मं यथाविधि।
कालस्य परिणामात्तु यथा पक्वफलं तथा॥ 13-151-32(87266)
स विसृज्य स्वकं देहं प्रविशेद्ब्रह्म शाश्वतम्।
निरामयमनाद्यन्तं गुणसौम्यमचेतनम्॥ 13-151-33(87267)
निरक्षरमबीजं च निरिन्द्रियमजं तथा।
अजय्यमक्षयं यत्तदभेद्यं सूक्ष्ममेव च॥ 13-151-34(87268)
निर्गुणं च प्रकृतिमन्निर्विकारं च सर्वशः।
भूतभव्यभविष्यस्य कालस्य परमेश्वरम्। 13-151-35(87269)
अव्यक्तं पुरुषं क्षेत्रमानन्त्याय प्रपद्यते॥'॥ ॥ 13-151-36(87270)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः॥ 151 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-151-33 गुणसाम्यमचेतनमिति क.थ.पाठः॥ 7-151-35 निर्गुणं चाप्रकृतिमदिति थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|